अश्वा॑दिया॒येति॒ यद्वद॒न्त्योज॑सो जा॒तमु॒त म॑न्य एनम् । म॒न्योरि॑याय ह॒र्म्येषु॑ तस्थौ॒ यत॑: प्रज॒ज्ञ इन्द्रो॑ अस्य वेद ॥
aśvād iyāyeti yad vadanty ojaso jātam uta manya enam | manyor iyāya harmyeṣu tasthau yataḥ prajajña indro asya veda ||
अश्वा॑त् । इ॒या॒य॒ । इति॑ । यत् । वद॑न्ति । ओज॑सः । जा॒तम् । उ॒त । म॒न्ये॒ । ए॒न॒म् । म॒न्योः । इ॒या॒य॒ । ह॒र्म्येषु॑ । त॒स्थौ॒ । यतः॑ । प्र॒ऽज॒ज्ञे । इन्द्रः॑ । अ॒स्य॒ । वे॒द॒ ॥ १०.७३.१०